1 |
भक्तामर प्रणत मौलिमणि प्रभाणा । मुद्योतकं दलित पाप तमोवितानम् ॥ सम्यक् प्रणम्य जिन पादयुगं युगादा । वालंबनं भवजले पततां जनानाम् ॥१॥ |
1.भक्तामर - प्रणत - मौलि - मणि -प्रभाणा-मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम् |
2 |
यः संस्तुतः सकल वाङ्मय तत्वबोधा । द् उद्भूत बुद्धिपटुभिः सुरलोकनाथैः ॥ स्तोत्रैर्जगत्त्रितय चित्त हरैरुदरैः । स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ |
2.य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा-दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् |
3 |
बुद्ध्या विनाऽपि विबुधार्चित पादपीठ । स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ॥ बालं विहाय जलसंस्थितमिन्दु बिम्ब । मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ |
3.बुद्ध्या विनापि विबुधार्चित - पाद - पीठ!स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम् |
4 |
वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान् । कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ॥ कल्पान्त काल् पवनोद्धत नक्रचक्रं । को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ |
4.वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्, कस्ते क्षम: सुर - गुरु-प्रतिमोऽपि बुद्ध ्या । कल्पान्त -काल - पवनोद्धत- नक्र- चक्रं , को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् |
5 |
सोऽहं तथापि तव भक्ति वशान्मुनीश । कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ॥ प्रीत्यऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं । नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ |
5.सोऽहं तथापि तव भक्ति - वशान्मुनीश! कर्तुं स्तवं विगत - शक्ति - रपि प्रवृत्त:। प्रीत्यात्म - वीर्य - मविचार्य मृगी मृगेन्द्रम् नाभ्येति किं निज-शिशो: परिपालनार्थम् |
6 |
अल्पश्रुतं श्रुतवतां परिहासधाम् । त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ॥ यत्कोकिलः किल मधौ मधुरं विरौति । तच्चारुचूत कलिकानिकरैकहेतु ॥६॥ |
6.अल्प- श्रुतं श्रुतवतां परिहास-धाम,त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् । यत्कोकिल: किल मधौ मधुरं विरौति, तच्चाम्र -चारु -कलिका-निकरैक -हेतु: |
7 |
त्वत्संस्तवेन भवसंतति सन्निबद्धं । पापं क्षणात् क्षयमुपैति शरीर भाजाम् ॥ आक्रान्त लोकमलिनीलमशेषमाशु । सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ |
7.त्वत्संस्तवेन भव - सन्तति-सन्निबद्धं,पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्त - लोक - मलि -नील-मशेष-माशु, सूर्यांशु- भिन्न-मिव शार्वर-मन्धकारम् |
8 |
मत्वेति नाथ्! तव् संस्तवनं मयेद । मारभ्यते तनुधियापि तव प्रभावात् ॥ चेतो हरिष्यति सतां नलिनीदलेषु । मुक्ताफल द्युतिमुपैति ननूदबिन्दुः ॥८॥ |
8.मत्वेति नाथ! तव संस्तवनं मयेद, -मारभ्यते तनु- धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ता-फल - द्युति-मुपैति ननूद-बिन्दु: |
9 |
आस्तां तव स्तवनमस्तसमस्त दोषं । त्वत्संकथाऽपि जगतां दुरितानि हन्ति ॥ दूरे सहस्त्रकिरणः कुरुते प्रभैव । पद्माकरेषु जलजानि विकाशभांजि ॥९॥ |
9.आस्तां तव स्तवन- मस्त-समस्त-दोषं,त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरण: कुरुते प्रभैव, पद्माकरेषु जलजानि विकासभाञ्जि |
10 |
नात्यद् भूतं भुवन भुषण भूतनाथ । भूतैर् गुणैर् भुवि भवन्तमभिष्टुवन्तः ॥ तुल्या भवन्ति भवतो ननु तेन किं वा । भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ |
10.नात्यद्-भुतं भुवन - भूषण ! भूूत-नाथ! भूतैर्गुणैर्भुवि भवन्त - मभिष्टुवन्त:। तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति |
11 |
दृष्टवा भवन्तमनिमेष विलोकनीयं । नान्यत्र तोषमुपयाति जनस्य चक्षुः ॥ पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः । क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ |
11.दृष्ट्वा भवन्त मनिमेष - विलोकनीयं, नान्यत्र - तोष- मुपयाति जनस्य चक्षु:। पीत्वा पय: शशिकर - द्युति - दुग्ध-सिन्धो:, क्षारं जलं जलनिधेरसितुं क इच्छेत्? |
12 |
यैः शान्तरागरुचिभिः परमाणुभिस्तवं । निर्मापितस्त्रिभुवनैक ललाम भूत ॥ तावन्त एव खलु तेऽप्यणवः पृथिव्यां । यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ |
12.यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,निर्मापितस्- त्रि-भुवनैक - ललाम-भूत ! तावन्त एव खलु तेऽप्यणव: पृथिव्यां, यत्ते समान- मपरं न हि रूप-मस्ति |
13 |
वक्त्रं क्व ते सुरनरोरगनेत्रहारि । निःशेष निर्जित जगत् त्रितयोपमानम् ॥ बिम्बं कलङ्क मलिनं क्व निशाकरस्य । यद्वासरे भवति पांडुपलाशकल्पम् ॥१३॥ |
13.वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,नि:शेष- निर्जित - जगत्त्रितयोपमानम् । बिम्बं कलङ्क - मलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डुपलाश-कल्पम् |
14 |
सम्पूर्णमण्ङल शशाङ्ककलाकलाप् ।
शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ॥
ये संश्रितास् त्रिजगदीश्वर नाथमेकं ।
कस्तान् निवारयति संचरतो यथेष्टम् ॥१४॥ |
14.सम्पूर्ण- मण्डल-शशाङ्क - कला-कलाप- शुभ्रा गुणास् - त्रि-भुवनं तव लङ्घयन्ति। ये संश्रितास् - त्रि-जगदीश्वरनाथ-मेकं, कस्तान् निवारयति सञ्चरतो यथेष्टम् |
15 |
चित्रं किमत्र यदि ते त्रिदशांगनाभिर् ।
नीतं मनागपि मनो न विकार मार्गम् ॥
कल्पान्तकालमरुता चलिताचलेन ।
किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥१५॥ |
15.चित्रं - किमत्र यदि ते त्रिदशाङ्ग-नाभिर्- नीतं मनागपि मनो न विकार - मार्गम्््् । कल्पान्त - काल - मरुता चलिताचलेन, किं मन्दराद्रिशिखरं चलितं कदाचित् |
16 |
निर्धूमवर्तिपवर्जित तैलपूरः ।
कृत्स्नं जगत्त्रयमिदं प्रकटी करोषि ॥
गम्यो न जातु मरुतां चलिताचलानां ।
दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥१६॥ |
16.निर्धूम - वर्ति - रपवर्जित - तैल-पूर:, कृत्स्नं जगत्त्रय - मिदं प्रकटीकरोषि। गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश: |
17 |
नास्तं कादाचिदुपयासि न राहुगम्यः ।
स्पष्टीकरोषि सहसा युगपज्जगन्ति ॥
नाम्भोधरोदर निरुद्धमहाप्रभावः ।
सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥१७॥ |
17.नास्तं कदाचिदुपयासि न राहुगम्य:, स्पष्टीकरोषि सहसा युगपज्- जगन्ति। नाम्भोधरोदर - निरुद्ध - महा- प्रभाव:, सूर्यातिशायि-महिमासि मुनीन्द्र! लोके |
18 |
नित्योदयं दलितमोहमहान्धकारं ।
गम्यं न राहुवदनस्य न वारिदानाम् ॥
विभ्राजते तव मुखाब्जमनल्प कान्ति ।
विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् ॥१८॥ |
18.नित्योदयं दलित - मोह - महान्धकारं, गम्यं न राहु - वदनस्य न वारिदानाम्। विभ्राजते तव मुखाब्ज - मनल्पकान्ति, विद्योतयज्-जगदपूर्व-शशाङ्क-बिम्बम् |
19 |
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा ।
युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ ॥
निष्मन्न शालिवनशालिनि जीव लोके ।
कार्यं कियज्जलधरैर् जलभार नम्रैः ॥१९॥ |
19.किं शर्वरीषु शशिनाह्नि विवस्वता वा, युष्मन्मुखेन्दु- दलितेषु तम:सु नाथ! निष्पन्न-शालि-वन-शालिनी जीव-लोके, कार्यं कियज्जल-धरै-र्जल-भार-नमै्र: |
20 |
ज्ञानं यथा त्वयि विभाति कृतावकाशं ।
नैवं तथा हरिहरादिषु नायकेषु ॥
तेजः स्फुरन्मणिषु याति यथा महत्वं ।
नैवं तु काच शकले किरणाकुलेऽपि ॥२०॥ |
20.ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरि -हरादिषु नायकेषु। तेजो महा मणिषु याति यथा महत्त्वं, नैवं तु काच -शकले किरणाकुलेऽपि |
21 |
मन्ये वरं हरि हरादय एव दृष्टा ।
दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥
किं वीक्षितेन भवता भुवि येन नान्यः ।
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥ |
21.मन्ये वरं हरि- हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्य:, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि |
22 |
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ।
नान्या सुतं त्वदुपमं जननी प्रसूता ॥
सर्वा दिशो दधति भानि सहस्त्ररश्मिं ।
प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥२२॥ |
22.स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्र-रश्मिं, प्राच्येव दिग्जनयति स्फुरदंशु-जालम् |
23 |
त्वामामनन्ति मुनयः परमं पुमांस ।
मादित्यवर्णममलं तमसः परस्तात् ॥
त्वामेव सम्यगुपलभ्य जयंति मृत्युं ।
नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ |
23.त्वामामनन्ति मुनय: परमं पुमांस- मादित्य-वर्ण-ममलं तमस: पुरस्तात्। त्वामेव सम्य - गुपलभ्य जयन्ति मृत्युं, नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था: |
24 |
त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं ।
ब्रह्माणमीश्वरम् अनंतमनंगकेतुम् ॥
योगीश्वरं विदितयोगमनेकमेकं ।
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ |
24.त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं, ब्रह्माणमीश्वर - मनन्त - मनङ्ग - केतुम्। योगीश्वरं विदित - योग-मनेक-मेकं, ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त: |
25 |
बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात् ।
त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ॥
धाताऽसि धीर! शिवमार्ग विधेर्विधानात् ।
व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥२५॥ |
25.बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शङ्करोऽसि भुवन-त्रय- शङ्करत्वात् । धातासि धीर! शिव-मार्ग विधेर्विधानाद्, व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि |
26 |
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ।
तुभ्यं नमः क्षितितलामलभूषणाय ॥
तुभ्यं नमस्त्रिजगतः परमेश्वराय ।
तुभ्यं नमो जिन! भवोदधि शोषणाय ॥२६॥ |
26.तुभ्यं नमस् - त्रिभुवनार्ति - हराय नाथ! तुभ्यं नम: क्षिति-तलामल -भूषणाय। तुभ्यं नमस् - त्रिजगत: परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय |
27 |
को विस्मयोऽत्र यदि नाम गुणैरशेषैस् ।
त्वं संश्रितो निरवकाशतया मुनीश! ॥
दोषैरूपात्त विविधाश्रय जातगर्वैः ।
स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ |
27.को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्- त्वं संश्रितो निरवकाशतया मुनीश ! दोषै - रुपात्त - विविधाश्रय-जात-गर्वै:, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि |
28 |
उच्चैरशोक तरुसंश्रितमुन्मयूख ।
माभाति रूपममलं भवतो नितान्तम् ॥
स्पष्टोल्लसत्किरणमस्त तमोवितानं ।
बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥२८॥ |
28.उच्चै - रशोक- तरु - संश्रितमुन्मयूख - माभाति रूपममलं भवतो नितान्तम्। स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं, बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति |
29 |
सिंहासने मणिमयूखशिखाविचित्रे ।
विभ्राजते तव वपुः कनकावदातम् ॥
बिम्बं वियद्विलसदंशुलता वितानं ।
तुंगोदयाद्रि शिरसीव सहस्त्ररश्मेः ॥२९॥ |
29.सिंहासने मणि-मयूख-शिखा-विचित्रे, विभ्राजते तव वपु: कनकावदातम्। बिम्बं वियद्-विलस - दंशुलता-वितानं तुङ्गोदयाद्रि-शिरसीव सहस्र-रश्मे: |
30 |
कुन्दावदात चलचामर चारुशोभं ।
विभ्राजते तव वपुः कलधौतकान्तम् ॥
उद्यच्छशांक शुचिनिर्झर वारिधार ।
मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥३०॥ |
30.कुन्दावदात - चल - चामर-चारु-शोभं, विभ्राजते तव वपु: कलधौत -कान्तम्। उद्यच्छशाङ्क- शुचिनिर्झर - वारि -धार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् |
31 |
छत्रत्रयं तव विभाति शशांककान्त ।
मुच्चैः स्थितं स्थगित भानुकर प्रतापम् ॥
मुक्ताफल प्रकरजाल विवृद्धशोभं ।
प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥ |
31.छत्रत्रयं - तव - विभाति शशाङ्ककान्त, मुच्चैः स्थितं स्थगित भानुकर - प्रतापम् । मुक्ताफल - प्रकरजाल - विवृद्धशोभं, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् |
32 |
गम्भीरतारवपूरित दिग्विभागस् ।
त्रैलोक्यलोक शुभसंगम भूतिदक्षः ॥
सद्धर्मराजजयघोषण घोषकः सन् ।
खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥३२॥ |
32.गम्भीर - तार - रव-पूरित-दिग्विभागस्- त्रैलोक्य - लोक -शुभ - सङ्गम -भूति-दक्ष:। सद्धर्म -राज - जय - घोषण - घोषक: सन्, खे दुन्दुभि-ध्र्वनति ते यशस: प्रवादी |
33 |
मन्दार सुन्दरनमेरू सुपारिजात ।
सन्तानकादिकुसुमोत्कर- वृष्टिरुद्धा ॥
गन्धोदबिन्दु शुभमन्द मरुत्प्रपाता ।
दिव्या दिवः पतित ते वचसां ततिर्वा ॥३३॥ |
33.मन्दार - सुन्दर - नमेरु - सुपारिजात- सन्तानकादि - कुसुमोत्कर - वृष्टि-रुद्घा। गन्धोद - बिन्दु- शुभ - मन्द - मरुत्प्रपाता, दिव्या दिव: पतति ते वचसां ततिर्वा |
34 |
शुम्भत्प्रभावलय भूरिविभा विभोस्ते ।
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ॥
प्रोद्यद् दिवाकर निरन्तर भूरिसंख्या ।
दीप्त्या जयत्यपि निशामपि सोम सौम्याम् ॥३४॥ |
34.शुम्भत्-प्रभा- वलय-भूरि-विभा-विभोस्ते, लोक - त्रये - द्युतिमतां द्युति-माक्षिपन्ती। प्रोद्यद्- दिवाकर-निरन्तर - भूरि -संख्या, दीप्त्या जयत्यपि निशामपि सोमसौम्याम् |
35 |
स्वर्गापवर्गगममार्ग विमार्गणेष्टः ।
सद्धर्मतत्वकथनैक पटुस्त्रिलोक्याः ॥
दिव्यध्वनिर्भवति ते विशदार्थसत्व ।
भाषास्वभाव परिणामगुणैः प्रयोज्यः ॥३५॥ |
35.स्वर्गापवर्ग - गम - मार्ग - विमार्गणेष्ट:, सद्धर्म- तत्त्व - कथनैक - पटुस्-त्रिलोक्या:। दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व- भाषास्वभाव-परिणाम-गुणै: प्रयोज्य: |
36 |
उन्निद्रहेम नवपंकज पुंजकान्ती ।
पर्युल्लसन्नखमयूख शिखाभिरामौ ॥
पादौ पदानि तव यत्र जिनेन्द्र! धत्तः ।
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३६॥ |
36.उन्निद्र - हेम - नव - पङ्कज - पुञ्ज-कान्ती, पर्युल्-लसन्-नख-मयूख-शिखाभिरामौ। पादौ पदानि तव यत्र जिनेन्द्र ! धत्त:, पद्मानि तत्र विबुधा: परिकल्पयन्ति |
37 |
इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ।
धर्मोपदेशनविधौ न तथा परस्य ॥
यादृक् प्रभा दिनकृतः प्रहतान्धकारा ।
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३७॥ |
37.इत्थं यथा तव विभूति- रभूज् - जिनेन्द्र्र ! धर्मोपदेशन - विधौ न तथा परस्य। यादृक् - प्र्रभा दिनकृत: प्रहतान्धकारा, तादृक्-कुतो ग्रहगणस्य विकासिनोऽपि |
38 |
श्च्योतन्मदाविलविलोल कपोलमूल ।
मत्तभ्रमद् भ्रमरनाद विवृद्धकोपम् ॥
ऐरावताभमिभमुद्धतमापतन्तं ।
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३८॥ |
38.श्च्यो-तन्-मदाविल-विलोल-कपोल-मूल, मत्त- भ्रमद्- भ्रमर - नाद - विवृद्ध-कोपम्। ऐरावताभमिभ - मुद्धत - मापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् |
39 |
भिन्नेभ कुम्भ गलदुज्जवल शोणिताक्त।
मुक्ताफल प्रकर भूषित भुमिभागः ॥
बद्धक्रमः क्रमगतं हरिणाधिपोऽपि ।
नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३९॥ |
39.भिन्नेभ - कुम्भ- गल - दुज्ज्वल-शोणिताक्त, मुक्ता - फल- प्रकरभूषित - भूमि - भाग:। बद्ध - क्रम: क्रम-गतं हरिणाधिपोऽपि, नाक्रामति क्रम-युगाचल-संश्रितं ते |
40 |
कल्पांतकाल पवनोद्धत वह्निकल्पं ।
दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् ॥
विश्वं जिघत्सुमिव सम्मुखमापतन्तं ।
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥ |
40.कल्पान्त - काल - पवनोद्धत - वह्नि -कल्पं, दावानलं ज्वलित-मुज्ज्वल - मुत्स्फुलिङ्गम्। विश्वं जिघत्सुमिव सम्मुख - मापतन्तं, त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् |
41 |
रक्तेक्षणं समदकोकिल कण्ठनीलं ।
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ॥
आक्रामति क्रमयुगेन निरस्तशंकस् ।
त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥४१॥ |
41.रक्तेक्षणं समद - कोकिल - कण्ठ-नीलम्, क्रोधोद्धतं फणिन - मुत्फण - मापतन्तम्। आक्रामति क्रम - युगेण निरस्त - शङ्कस्- त्वन्नाम- नागदमनी हृदि यस्य पुंस: |
42 |
वल्गत्तुरंग गजगर्जित भीमनाद ।
माजौ बलं बलवतामपि भूपतिनाम्! ॥
उद्यद्दिवाकर मयूख शिखापविद्धं ।
त्वत्- कीर्तनात् तम इवाशु भिदामुपैति ॥४२॥ |
42.वल्गत् - तुरङ्ग - गज - गर्जित - भीमनाद- माजौ बलं बलवता - मपि - भूपतीनाम्। उद्यद् - दिवाकर - मयूख - शिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति: |
43 |
कुन्ताग्रभिन्नगज शोणितवारिवाह ।
वेगावतार तरणातुरयोध भीमे ॥
युद्धे जयं विजितदुर्जयजेयपक्षास् ।
त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥४३॥ |
43.कुन्ताग्र-भिन्न - गज - शोणित - वारिवाह, वेगावतार - तरणातुर - योध - भीमे। युद्धे जयं विजित - दुर्जय - जेय - पक्षास्- त्वत्पाद-पङ्कज-वनाश्रयिणो लभन्ते: |
44 |
अम्भौनिधौ क्षुभितभीषणनक्रचक्र ।
पाठीन पीठभयदोल्बणवाडवाग्नौ ॥
रंगत्तरंग शिखरस्थित यानपात्रास् ।
त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥४४॥ |
44.अम्भोनिधौ क्षुभित - भीषण - नक्र - चक्र- पाठीन - पीठ-भय-दोल्वण - वाडवाग्नौ। रङ्गत्तरङ्ग -शिखर- स्थित- यान - पात्रास्- त्रासं विहाय भवत: स्मरणाद्-व्रजन्ति : |
45 |
उद्भूतभीषणजलोदर भारभुग्नाः ।
शोच्यां दशामुपगताश्च्युतजीविताशाः ॥
त्वत्पादपंकज रजोऽमृतदिग्धदेहा ।
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥ |
45.उद्भूत - भीषण - जलोदर - भार- भुग्ना:, शोच्यां दशा-मुपगताश्-च्युत-जीविताशा:। त्वत्पाद-पङ्कज-रजो - मृत - दिग्ध - देहा:, मत्र्या भवन्ति मकर-ध्वज-तुल्यरूपा: |
46 |
आपाद कण्ठमुरूश्रृंखल वेष्टितांगा ।
गाढं बृहन्निगडकोटिनिघृष्टजंघाः ॥
त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः ।
सद्यः स्वयं विगत बन्धभया भवन्ति ॥४६॥ |
46.आपाद - कण्ठमुरु - शृङ्खल - वेष्टिताङ्गा, गाढं-बृहन्-निगड-कोटि निघृष्ट - जङ्घा:। त्वन्-नाम-मन्त्र- मनिशं मनुजा: स्मरन्त:, सद्य: स्वयं विगत-बन्ध-भया भवन्ति: |
47 |
मत्तद्विपेन्द्र मृगराज दवानलाहि ।
संग्राम वारिधि महोदर बन्धनोत्थम् ॥
तस्याशु नाशमुपयाति भयं भियेव ।
यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥ |
47.मत्त-द्विपेन्द्र- मृग- राज - दवानलाहि- संग्राम-वारिधि-महोदर - बन्ध -नोत्थम्। तस्याशु नाश - मुपयाति भयं भियेव, यस्तावकं स्तव-मिमं मतिमानधीते: |
48 |
स्तोत्रस्त्रजं तव जिनेन्द्र! गुणैर्निबद्धां ।
भक्त्या मया विविधवर्णविचित्रपुष्पाम् ॥
धत्ते जनो य इह कंठगतामजस्रं ।
तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४८॥ |
48.स्तोत्र - स्रजं तव जिनेन्द्र गुणैर्निबद्धाम्, भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्। धत्ते जनो य इह कण्ठ-गता-मजस्रं, तं मानतुङ्ग-मवशा-समुपैति लक्ष्मी: |
|
|
|