Monday, May 30, 2016

Bhaktamar Stotra

Bhaktamar Stotra
SN From Wiki From http://sanskarsagar.org
1 भक्तामर प्रणत मौलिमणि प्रभाणा । मुद्योतकं दलित पाप तमोवितानम् ॥ सम्यक् प्रणम्य जिन पादयुगं युगादा । वालंबनं भवजले पततां जनानाम् ॥१॥ 1.भक्तामर - प्रणत - मौलि - मणि -प्रभाणा-मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्
2 यः संस्तुतः सकल वाङ्मय तत्वबोधा । द् उद्भूत बुद्धिपटुभिः सुरलोकनाथैः ॥ स्तोत्रैर्जगत्त्रितय चित्त हरैरुदरैः । स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ 2.य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा-दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्
3 बुद्ध्या विनाऽपि विबुधार्चित पादपीठ । स्तोतुं समुद्यत मतिर्विगतत्रपोऽहम् ॥ बालं विहाय जलसंस्थितमिन्दु बिम्ब । मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ 3.बुद्ध्या विनापि विबुधार्चित - पाद - पीठ!स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम्
4 वक्तुं गुणान् गुणसमुद्र शशाङ्क्कान्तान् । कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या ॥ कल्पान्त काल् पवनोद्धत नक्रचक्रं । को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ 4.वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्, कस्ते क्षम: सुर - गुरु-प्रतिमोऽपि बुद्ध ्या । कल्पान्त -काल - पवनोद्धत- नक्र- चक्रं , को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्
5 सोऽहं तथापि तव भक्ति वशान्मुनीश । कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ॥ प्रीत्यऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं । नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ 5.सोऽहं तथापि तव भक्ति - वशान्मुनीश! कर्तुं स्तवं विगत - शक्ति - रपि प्रवृत्त:। प्रीत्यात्म - वीर्य - मविचार्य मृगी मृगेन्द्रम् नाभ्येति किं निज-शिशो: परिपालनार्थम्
6 अल्पश्रुतं श्रुतवतां परिहासधाम् । त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् ॥ यत्कोकिलः किल मधौ मधुरं विरौति । तच्चारुचूत कलिकानिकरैकहेतु ॥६॥ 6.अल्प- श्रुतं श्रुतवतां परिहास-धाम,त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् । यत्कोकिल: किल मधौ मधुरं विरौति, तच्चाम्र -चारु -कलिका-निकरैक -हेतु:
7 त्वत्संस्तवेन भवसंतति सन्निबद्धं । पापं क्षणात् क्षयमुपैति शरीर भाजाम् ॥ आक्रान्त लोकमलिनीलमशेषमाशु । सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ 7.त्वत्संस्तवेन भव - सन्तति-सन्निबद्धं,पापं क्षणात्क्षयमुपैति शरीरभाजाम् । आक्रान्त - लोक - मलि -नील-मशेष-माशु, सूर्यांशु- भिन्न-मिव शार्वर-मन्धकारम्
8 मत्वेति नाथ्! तव् संस्तवनं मयेद । मारभ्यते तनुधियापि तव प्रभावात् ॥ चेतो हरिष्यति सतां नलिनीदलेषु । मुक्ताफल द्युतिमुपैति ननूदबिन्दुः ॥८॥ 8.मत्वेति नाथ! तव संस्तवनं मयेद, -मारभ्यते तनु- धियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु, मुक्ता-फल - द्युति-मुपैति ननूद-बिन्दु:
9 आस्तां तव स्तवनमस्तसमस्त दोषं । त्वत्संकथाऽपि जगतां दुरितानि हन्ति ॥ दूरे सहस्त्रकिरणः कुरुते प्रभैव । पद्माकरेषु जलजानि विकाशभांजि ॥९॥ 9.आस्तां तव स्तवन- मस्त-समस्त-दोषं,त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरण: कुरुते प्रभैव, पद्माकरेषु जलजानि विकासभाञ्जि
10 नात्यद् भूतं भुवन भुषण भूतनाथ । भूतैर् गुणैर् भुवि भवन्तमभिष्टुवन्तः ॥ तुल्या भवन्ति भवतो ननु तेन किं वा । भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ 10.नात्यद्-भुतं भुवन - भूषण ! भूूत-नाथ! भूतैर्गुणैर्भुवि भवन्त - मभिष्टुवन्त:। तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति
11 दृष्टवा भवन्तमनिमेष विलोकनीयं । नान्यत्र तोषमुपयाति जनस्य चक्षुः ॥ पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः । क्षारं जलं जलनिधेरसितुं क इच्छेत् ॥११॥ 11.दृष्ट्वा भवन्त मनिमेष - विलोकनीयं, नान्यत्र - तोष- मुपयाति जनस्य चक्षु:। पीत्वा पय: शशिकर - द्युति - दुग्ध-सिन्धो:, क्षारं जलं जलनिधेरसितुं क इच्छेत्?
12 यैः शान्तरागरुचिभिः परमाणुभिस्तवं । निर्मापितस्त्रिभुवनैक ललाम भूत ॥ तावन्त एव खलु तेऽप्यणवः पृथिव्यां । यत्ते समानमपरं न हि रूपमस्ति ॥१२॥ 12.यै: शान्त-राग-रुचिभि: परमाणुभिस्-त्वं,निर्मापितस्- त्रि-भुवनैक - ललाम-भूत ! तावन्त एव खलु तेऽप्यणव: पृथिव्यां, यत्ते समान- मपरं न हि रूप-मस्ति
13 वक्त्रं क्व ते सुरनरोरगनेत्रहारि । निःशेष निर्जित जगत् त्रितयोपमानम् ॥ बिम्बं कलङ्क मलिनं क्व निशाकरस्य । यद्वासरे भवति पांडुपलाशकल्पम् ॥१३॥ 13.वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,नि:शेष- निर्जित - जगत्त्रितयोपमानम् । बिम्बं कलङ्क - मलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डुपलाश-कल्पम्
14 सम्पूर्णमण्ङल शशाङ्ककलाकलाप् । शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति ॥ ये संश्रितास् त्रिजगदीश्वर नाथमेकं । कस्तान् निवारयति संचरतो यथेष्टम् ॥१४॥ 14.सम्पूर्ण- मण्डल-शशाङ्क - कला-कलाप- शुभ्रा गुणास् - त्रि-भुवनं तव लङ्घयन्ति। ये संश्रितास् - त्रि-जगदीश्वरनाथ-मेकं, कस्तान् निवारयति सञ्चरतो यथेष्टम्
15 चित्रं किमत्र यदि ते त्रिदशांगनाभिर् । नीतं मनागपि मनो न विकार मार्गम् ॥ कल्पान्तकालमरुता चलिताचलेन । किं मन्दराद्रिशिखिरं चलितं कदाचित् ॥१५॥ 15.चित्रं - किमत्र यदि ते त्रिदशाङ्ग-नाभिर्- नीतं मनागपि मनो न विकार - मार्गम्््् । कल्पान्त - काल - मरुता चलिताचलेन, किं मन्दराद्रिशिखरं चलितं कदाचित्
16 निर्धूमवर्तिपवर्जित तैलपूरः । कृत्स्नं जगत्त्रयमिदं प्रकटी करोषि ॥ गम्यो न जातु मरुतां चलिताचलानां । दीपोऽपरस्त्वमसि नाथ् जगत्प्रकाशः ॥१६॥ 16.निर्धूम - वर्ति - रपवर्जित - तैल-पूर:, कृत्स्नं जगत्त्रय - मिदं प्रकटीकरोषि। गम्यो न जातु मरुतां चलिताचलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाश:
17 नास्तं कादाचिदुपयासि न राहुगम्यः । स्पष्टीकरोषि सहसा युगपज्जगन्ति ॥ नाम्भोधरोदर निरुद्धमहाप्रभावः । सूर्यातिशायिमहिमासि मुनीन्द्र! लोके ॥१७॥ 17.नास्तं कदाचिदुपयासि न राहुगम्य:, स्पष्टीकरोषि सहसा युगपज्- जगन्ति। नाम्भोधरोदर - निरुद्ध - महा- प्रभाव:, सूर्यातिशायि-महिमासि मुनीन्द्र! लोके
18 नित्योदयं दलितमोहमहान्धकारं । गम्यं न राहुवदनस्य न वारिदानाम् ॥ विभ्राजते तव मुखाब्जमनल्प कान्ति । विद्योतयज्जगदपूर्व शशाङ्कबिम्बम् ॥१८॥ 18.नित्योदयं दलित - मोह - महान्धकारं, गम्यं न राहु - वदनस्य न वारिदानाम्। विभ्राजते तव मुखाब्ज - मनल्पकान्ति, विद्योतयज्-जगदपूर्व-शशाङ्क-बिम्बम्
19 किं शर्वरीषु शशिनाऽह्नि विवस्वता वा । युष्मन्मुखेन्दु दलितेषु तमस्सु नाथ ॥ निष्मन्न शालिवनशालिनि जीव लोके । कार्यं कियज्जलधरैर् जलभार नम्रैः ॥१९॥ 19.किं शर्वरीषु शशिनाह्नि विवस्वता वा, युष्मन्मुखेन्दु- दलितेषु तम:सु नाथ! निष्पन्न-शालि-वन-शालिनी जीव-लोके, कार्यं कियज्जल-धरै-र्जल-भार-नमै्र:
20 ज्ञानं यथा त्वयि विभाति कृतावकाशं । नैवं तथा हरिहरादिषु नायकेषु ॥ तेजः स्फुरन्मणिषु याति यथा महत्वं । नैवं तु काच शकले किरणाकुलेऽपि ॥२०॥ 20.ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरि -हरादिषु नायकेषु। तेजो महा मणिषु याति यथा महत्त्वं, नैवं तु काच -शकले किरणाकुलेऽपि
21 मन्ये वरं हरि हरादय एव दृष्टा । दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥ किं वीक्षितेन भवता भुवि येन नान्यः । कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥२१॥ 21.मन्ये वरं हरि- हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति। किं वीक्षितेन भवता भुवि येन नान्य:, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि
22 स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् । नान्या सुतं त्वदुपमं जननी प्रसूता ॥ सर्वा दिशो दधति भानि सहस्त्ररश्मिं । प्राच्येव दिग् जनयति स्फुरदंशुजालं ॥२२॥ 22.स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्र-रश्मिं, प्राच्येव दिग्जनयति स्फुरदंशु-जालम्
23 त्वामामनन्ति मुनयः परमं पुमांस । मादित्यवर्णममलं तमसः परस्तात् ॥ त्वामेव सम्यगुपलभ्य जयंति मृत्युं । नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ 23.त्वामामनन्ति मुनय: परमं पुमांस- मादित्य-वर्ण-ममलं तमस: पुरस्तात्। त्वामेव सम्य - गुपलभ्य जयन्ति मृत्युं, नान्य: शिव: शिवपदस्य मुनीन्द्र! पन्था:
24 त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्यं । ब्रह्माणमीश्वरम् अनंतमनंगकेतुम् ॥ योगीश्वरं विदितयोगमनेकमेकं । ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ 24.त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं, ब्रह्माणमीश्वर - मनन्त - मनङ्ग - केतुम्। योगीश्वरं विदित - योग-मनेक-मेकं, ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त:
25 बुद्धस्त्वमेव विबुधार्चित बुद्धि बोधात् । त्वं शंकरोऽसि भुवनत्रय शंकरत्वात् ॥ धाताऽसि धीर! शिवमार्ग विधेर्विधानात् । व्यक्तं त्वमेव भगवन्! पुरुषोत्तमोऽसि ॥२५॥ 25.बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शङ्करोऽसि भुवन-त्रय- शङ्करत्वात् । धातासि धीर! शिव-मार्ग विधेर्विधानाद्, व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि
26 तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ । तुभ्यं नमः क्षितितलामलभूषणाय ॥ तुभ्यं नमस्त्रिजगतः परमेश्वराय । तुभ्यं नमो जिन! भवोदधि शोषणाय ॥२६॥ 26.तुभ्यं नमस् - त्रिभुवनार्ति - हराय नाथ! तुभ्यं नम: क्षिति-तलामल -भूषणाय। तुभ्यं नमस् - त्रिजगत: परमेश्वराय, तुभ्यं नमो जिन! भवोदधि-शोषणाय
27 को विस्मयोऽत्र यदि नाम गुणैरशेषैस् । त्वं संश्रितो निरवकाशतया मुनीश! ॥ दोषैरूपात्त विविधाश्रय जातगर्वैः । स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ 27.को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्- त्वं संश्रितो निरवकाशतया मुनीश ! दोषै - रुपात्त - विविधाश्रय-जात-गर्वै:, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि
28 उच्चैरशोक तरुसंश्रितमुन्मयूख । माभाति रूपममलं भवतो नितान्तम् ॥ स्पष्टोल्लसत्किरणमस्त तमोवितानं । बिम्बं रवेरिव पयोधर पार्श्ववर्ति ॥२८॥ 28.उच्चै - रशोक- तरु - संश्रितमुन्मयूख - माभाति रूपममलं भवतो नितान्तम्। स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं, बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति
29 सिंहासने मणिमयूखशिखाविचित्रे । विभ्राजते तव वपुः कनकावदातम् ॥ बिम्बं वियद्विलसदंशुलता वितानं । तुंगोदयाद्रि शिरसीव सहस्त्ररश्मेः ॥२९॥ 29.सिंहासने मणि-मयूख-शिखा-विचित्रे, विभ्राजते तव वपु: कनकावदातम्। बिम्बं वियद्-विलस - दंशुलता-वितानं तुङ्गोदयाद्रि-शिरसीव सहस्र-रश्मे:
30 कुन्दावदात चलचामर चारुशोभं । विभ्राजते तव वपुः कलधौतकान्तम् ॥ उद्यच्छशांक शुचिनिर्झर वारिधार । मुच्चैस्तटं सुर गिरेरिव शातकौम्भम् ॥३०॥ 30.कुन्दावदात - चल - चामर-चारु-शोभं, विभ्राजते तव वपु: कलधौत -कान्तम्। उद्यच्छशाङ्क- शुचिनिर्झर - वारि -धार- मुच्चैस्तटं सुरगिरेरिव शातकौम्भम्
31 छत्रत्रयं तव विभाति शशांककान्त । मुच्चैः स्थितं स्थगित भानुकर प्रतापम् ॥ मुक्ताफल प्रकरजाल विवृद्धशोभं । प्रख्यापयत्त्रिजगतः परमेश्वरत्वम् ॥३१॥ 31.छत्रत्रयं - तव - विभाति शशाङ्ककान्त, मुच्चैः स्थितं स्थगित भानुकर - प्रतापम् । मुक्ताफल - प्रकरजाल - विवृद्धशोभं, प्रख्यापयत्त्रिजगतः परमेश्वरत्वम्
32 गम्भीरतारवपूरित दिग्विभागस् । त्रैलोक्यलोक शुभसंगम भूतिदक्षः ॥ सद्धर्मराजजयघोषण घोषकः सन् । खे दुन्दुभिर्ध्वनति ते यशसः प्रवादी ॥३२॥ 32.गम्भीर - तार - रव-पूरित-दिग्विभागस्- त्रैलोक्य - लोक -शुभ - सङ्गम -भूति-दक्ष:। सद्धर्म -राज - जय - घोषण - घोषक: सन्, खे दुन्दुभि-ध्र्वनति ते यशस: प्रवादी
33 मन्दार सुन्दरनमेरू सुपारिजात । सन्तानकादिकुसुमोत्कर- वृष्टिरुद्धा ॥ गन्धोदबिन्दु शुभमन्द मरुत्प्रपाता । दिव्या दिवः पतित ते वचसां ततिर्वा ॥३३॥ 33.मन्दार - सुन्दर - नमेरु - सुपारिजात- सन्तानकादि - कुसुमोत्कर - वृष्टि-रुद्घा। गन्धोद - बिन्दु- शुभ - मन्द - मरुत्प्रपाता, दिव्या दिव: पतति ते वचसां ततिर्वा
34 शुम्भत्प्रभावलय भूरिविभा विभोस्ते । लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ॥ प्रोद्यद् दिवाकर निरन्तर भूरिसंख्या । दीप्त्या जयत्यपि निशामपि सोम सौम्याम् ॥३४॥ 34.शुम्भत्-प्रभा- वलय-भूरि-विभा-विभोस्ते, लोक - त्रये - द्युतिमतां द्युति-माक्षिपन्ती। प्रोद्यद्- दिवाकर-निरन्तर - भूरि -संख्या, दीप्त्या जयत्यपि निशामपि सोमसौम्याम्
35 स्वर्गापवर्गगममार्ग विमार्गणेष्टः । सद्धर्मतत्वकथनैक पटुस्त्रिलोक्याः ॥ दिव्यध्वनिर्भवति ते विशदार्थसत्व । भाषास्वभाव परिणामगुणैः प्रयोज्यः ॥३५॥ 35.स्वर्गापवर्ग - गम - मार्ग - विमार्गणेष्ट:, सद्धर्म- तत्त्व - कथनैक - पटुस्-त्रिलोक्या:। दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व- भाषास्वभाव-परिणाम-गुणै: प्रयोज्य:
36 उन्निद्रहेम नवपंकज पुंजकान्ती । पर्युल्लसन्नखमयूख शिखाभिरामौ ॥ पादौ पदानि तव यत्र जिनेन्द्र! धत्तः । पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३६॥ 36.उन्निद्र - हेम - नव - पङ्कज - पुञ्ज-कान्ती, पर्युल्-लसन्-नख-मयूख-शिखाभिरामौ। पादौ पदानि तव यत्र जिनेन्द्र ! धत्त:, पद्मानि तत्र विबुधा: परिकल्पयन्ति
37 इत्थं यथा तव विभूतिरभूज्जिनेन्द्र । धर्मोपदेशनविधौ न तथा परस्य ॥ यादृक् प्रभा दिनकृतः प्रहतान्धकारा । तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३७॥ 37.इत्थं यथा तव विभूति- रभूज् - जिनेन्द्र्र ! धर्मोपदेशन - विधौ न तथा परस्य। यादृक् - प्र्रभा दिनकृत: प्रहतान्धकारा, तादृक्-कुतो ग्रहगणस्य विकासिनोऽपि
38 श्च्योतन्मदाविलविलोल कपोलमूल । मत्तभ्रमद् भ्रमरनाद विवृद्धकोपम् ॥ ऐरावताभमिभमुद्धतमापतन्तं । दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३८॥ 38.श्च्यो-तन्-मदाविल-विलोल-कपोल-मूल, मत्त- भ्रमद्- भ्रमर - नाद - विवृद्ध-कोपम्। ऐरावताभमिभ - मुद्धत - मापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम्
39 भिन्नेभ कुम्भ गलदुज्जवल शोणिताक्त। मुक्ताफल प्रकर भूषित भुमिभागः ॥ बद्धक्रमः क्रमगतं हरिणाधिपोऽपि । नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३९॥ 39.भिन्नेभ - कुम्भ- गल - दुज्ज्वल-शोणिताक्त, मुक्ता - फल- प्रकरभूषित - भूमि - भाग:। बद्ध - क्रम: क्रम-गतं हरिणाधिपोऽपि, नाक्रामति क्रम-युगाचल-संश्रितं ते
40 कल्पांतकाल पवनोद्धत वह्निकल्पं । दावानलं ज्वलितमुज्जवलमुत्स्फुलिंगम् ॥ विश्वं जिघत्सुमिव सम्मुखमापतन्तं । त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥४०॥ 40.कल्पान्त - काल - पवनोद्धत - वह्नि -कल्पं, दावानलं ज्वलित-मुज्ज्वल - मुत्स्फुलिङ्गम्। विश्वं जिघत्सुमिव सम्मुख - मापतन्तं, त्वन्नाम-कीर्तन-जलं शमयत्यशेषम्
41 रक्तेक्षणं समदकोकिल कण्ठनीलं । क्रोधोद्धतं फणिनमुत्फणमापतन्तम् ॥ आक्रामति क्रमयुगेन निरस्तशंकस् । त्वन्नाम नागदमनी हृदि यस्य पुंसः ॥४१॥ 41.रक्तेक्षणं समद - कोकिल - कण्ठ-नीलम्, क्रोधोद्धतं फणिन - मुत्फण - मापतन्तम्। आक्रामति क्रम - युगेण निरस्त - शङ्कस्- त्वन्नाम- नागदमनी हृदि यस्य पुंस:
42 वल्गत्तुरंग गजगर्जित भीमनाद । माजौ बलं बलवतामपि भूपतिनाम्! ॥ उद्यद्दिवाकर मयूख शिखापविद्धं । त्वत्- कीर्तनात् तम इवाशु भिदामुपैति ॥४२॥ 42.वल्गत् - तुरङ्ग - गज - गर्जित - भीमनाद- माजौ बलं बलवता - मपि - भूपतीनाम्। उद्यद् - दिवाकर - मयूख - शिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति:
43 कुन्ताग्रभिन्नगज शोणितवारिवाह । वेगावतार तरणातुरयोध भीमे ॥ युद्धे जयं विजितदुर्जयजेयपक्षास् । त्वत्पाद पंकजवनाश्रयिणो लभन्ते ॥४३॥ 43.कुन्ताग्र-भिन्न - गज - शोणित - वारिवाह, वेगावतार - तरणातुर - योध - भीमे। युद्धे जयं विजित - दुर्जय - जेय - पक्षास्- त्वत्पाद-पङ्कज-वनाश्रयिणो लभन्ते:
44 अम्भौनिधौ क्षुभितभीषणनक्रचक्र । पाठीन पीठभयदोल्बणवाडवाग्नौ ॥ रंगत्तरंग शिखरस्थित यानपात्रास् । त्रासं विहाय भवतःस्मरणाद् व्रजन्ति ॥४४॥ 44.अम्भोनिधौ क्षुभित - भीषण - नक्र - चक्र- पाठीन - पीठ-भय-दोल्वण - वाडवाग्नौ। रङ्गत्तरङ्ग -शिखर- स्थित- यान - पात्रास्- त्रासं विहाय भवत: स्मरणाद्-व्रजन्ति :
45 उद्भूतभीषणजलोदर भारभुग्नाः । शोच्यां दशामुपगताश्च्युतजीविताशाः ॥ त्वत्पादपंकज रजोऽमृतदिग्धदेहा । मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥ 45.उद्भूत - भीषण - जलोदर - भार- भुग्ना:, शोच्यां दशा-मुपगताश्-च्युत-जीविताशा:। त्वत्पाद-पङ्कज-रजो - मृत - दिग्ध - देहा:, मत्र्या भवन्ति मकर-ध्वज-तुल्यरूपा:
46 आपाद कण्ठमुरूश्रृंखल वेष्टितांगा । गाढं बृहन्निगडकोटिनिघृष्टजंघाः ॥ त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः । सद्यः स्वयं विगत बन्धभया भवन्ति ॥४६॥ 46.आपाद - कण्ठमुरु - शृङ्खल - वेष्टिताङ्गा, गाढं-बृहन्-निगड-कोटि निघृष्ट - जङ्घा:। त्वन्-नाम-मन्त्र- मनिशं मनुजा: स्मरन्त:, सद्य: स्वयं विगत-बन्ध-भया भवन्ति:
47 मत्तद्विपेन्द्र मृगराज दवानलाहि । संग्राम वारिधि महोदर बन्धनोत्थम् ॥ तस्याशु नाशमुपयाति भयं भियेव । यस्तावकं स्तवमिमं मतिमानधीते ॥४७॥ 47.मत्त-द्विपेन्द्र- मृग- राज - दवानलाहि- संग्राम-वारिधि-महोदर - बन्ध -नोत्थम्। तस्याशु नाश - मुपयाति भयं भियेव, यस्तावकं स्तव-मिमं मतिमानधीते:
48 स्तोत्रस्त्रजं तव जिनेन्द्र! गुणैर्निबद्धां । भक्त्या मया विविधवर्णविचित्रपुष्पाम् ॥ धत्ते जनो य इह कंठगतामजस्रं । तं मानतुंगमवशा समुपैति लक्ष्मीः ॥४८॥ 48.स्तोत्र - स्रजं तव जिनेन्द्र गुणैर्निबद्धाम्, भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम्। धत्ते जनो य इह कण्ठ-गता-मजस्रं, तं मानतुङ्ग-मवशा-समुपैति लक्ष्मी: